Sukta 2.30
अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि । ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि ॥
अ॒स्माके॑भि॒: सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि । ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि ॥
asmā́kebhiḥ sátvabhiḥ śūra śū́rair vīryā̀ kṛdhi yā́ni te kártvāni | jyóg abhūvann ánu-dhūpitāso hatvī́ téṣām ā́ bharā no vásūni ||
With our powers, O hero, with heroic forces, do the acts of might that are yours to do. Let them be long subdued and smoked out; having slain them, bring to us the riches—fullnesses of being.
अ॒स्माके॑भिः । सत्व॑ऽभिः । शू॒र॒ । शूरैः॑ । वी॒र्या॑ । कृ॒धि॒ । यानि॑ । ते॒ । कर्त्वा॑नि । ज्योक् । अ॒भू॒व॒न् । अनु॑ऽधूपितासः । ह॒त्वी । तेषा॑म् । आ । भ॒र॒ । नः॒ । वसू॑नि ॥अस्माकेभिः । सत्वभिः । शूर । शूरैः । वीर्या । कृधि । यानि । ते । कर्त्वानि । ज्योक् । अभूवन् । अनुधूपितासः । हत्वी । तेषाम् । आ । भर । नः । वसूनि ॥asmākebhiḥ | satva-bhiḥ | śūra | śūraiḥ | vīryā | kṛdhi | yāni | te | kartvāni | jyok | abhūvan | anu-dhūpitāsaḥ | hatvī | teṣām | ā | bhara | naḥ | vasūni