Sukta 2.30
सरस्वति त्वमस्माँ अविड्ढि मरुत्वती धृषती जेषि शत्रून् । त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम् ॥
सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे॑षि॒ शत्रू॑न् । त्यं चि॒च्छर्ध॑न्तं तविषी॒यमा॑ण॒मिन्द्रो॑ हन्ति वृष॒भं शण्डि॑कानाम् ॥
sárasvati tvám asmā́n aviḍḍhi marútvatī dhṛṣatī́ jéṣi śátrūn | tyáṃ cic chárdhantaṃ taviṣī́-yamāṇam índro hanti vṛṣabháṃ śáṇḍikānām ||
O Sarasvatī, strike through for us—Marut-possessing, bold—conquer the foes. Even that bull of the Śaṇḍikas, massing his band and swelling with force, Indra smites down.
सर॑स्वति । त्वम् । अ॒स्मान् । अ॒वि॒ड्ढि॒ । म॒रुत्व॑ती । धृ॒ष॒ती । जे॒षि॒ । शत्रू॑न् । त्यम् । चि॒त् । शर्ध॑न्तम् । त॒वि॒षी॒ऽयमा॑णम् । इन्द्रः॑ । ह॒न्ति॒ । वृ॒ष॒भम् । शण्डि॑कानाम् ॥सरस्वति । त्वम् । अस्मान् । अविड्ढि । मरुत्वती । धृषती । जेषि । शत्रून् । त्यम् । चित् । शर्धन्तम् । तविषीयमाणम् । इन्द्रः । हन्ति । वृषभम् । शण्डिकानाम् ॥sarasvati | tvam | asmān | aviḍḍhi | marutvatī | dhṛṣatī | jeṣi | śatrūn | tyam | cit | śardhantam | taviṣī-yamāṇam | indraḥ | hanti | vṛṣabham | śaṇḍikānām