Sukta 2.30
प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ । इन्द्रासोमा युवमस्माँ अविष्टमस्मिन्भयस्थे कृणुतमु लोकम् ॥
प्र हि क्रतुं॑ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ । इन्द्रा॑सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन्भ॒यस्थे॑ कृणुतमु लो॒कम् ॥
prá hí krátum vṛ́hatho yáṃ vanútho radhrásya sthó yajámānasya codáu | índrā-sómā yuvám asmā́n aviṣṭam asmín bhayá-sthe kṛṇutam lokám ||
For you enlarge the will and the discerning power that you choose; you are the impellers of the sacrificer, and the breakers of the crooked. O Indra and Soma, protect us; in this place of fear make for us a wideness, a secure world.
प्र । हि । क्रतु॑म् । वृ॒हथः॑ । यम् । व॒नु॒थः । र॒ध्रस्य॑ । स्थः॒ । यज॑मानस्य । चो॒दौ । इन्द्रा॑सोमा । यु॒वम् । अ॒स्मान् । अ॒वि॒ष्ट॒म् । अ॒स्मिन् । भ॒यऽस्थे॑ । कृ॒णु॒त॒म् । ऊँ॒ इति॑ । लो॒कम् ॥प्र । हि । क्रतुम् । वृहथः । यम् । वनुथः । रध्रस्य । स्थः । यजमानस्य । चोदौ । इन्द्रासोमा । युवम् । अस्मान् । अविष्टम् । अस्मिन् । भयस्थे । कृणुतम् । ऊँ इति । लोकम् ॥pra | hi | kratum | vṛhathaḥ | yam | vanuthaḥ | radhrasya | sthaḥ | yajamānasya | codau | indrāsomā | yuvam | asmān | aviṣṭam | asmin | bhaya-sthe | kṛṇutam | oṃ iti | lokam