Sukta 2.30
अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः । तोकस्य सातौ तनयस्य भूरेरस्माँ अर्धं कृणुतादिन्द्र गोनाम् ॥
अव॑ क्षिप दि॒वो अश्मा॑नमु॒च्चा येन॒ शत्रुं॑ मन्दसा॒नो नि॒जूर्वा॑: । तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे॑र॒स्माँ अ॒र्धं कृ॑णुतादिन्द्र॒ गोना॑म् ॥
áva kṣipa divó áśmānam uccā́ yénā śátruṃ mandasā́nó ní-jūrvāḥ | tókasyā sātáu tánayasya bhū́rer asmā́n árdhaṃ kṛṇutād indra gónām ||
Cast down from heaven the high stone by which, exulting, you crush the enemy. For the winning of the child and the abundant offspring, make us a rightful share in the rays of Light, O Indra.
अव॑ । क्षि॒प॒ । दि॒वः । अश्मा॑नम् । उ॒च्चा । येन॑ । शत्रु॑म् । म॒न्द॒सा॒नः । नि॒ऽजूर्वाः॑ । तो॒कस्य॑ । सा॒तौ । तन॑यस्य । भूरेः॑ । अ॒स्मान् । अ॒र्धम् । कृ॒णु॒ता॒त् । इ॒न्द्र॒ । गोना॑म् ॥अव । क्षिप । दिवः । अश्मानम् । उच्चा । येन । शत्रुम् । मन्दसानः । निजूर्वाः । तोकस्य । सातौ । तनयस्य । भूरेः । अस्मान् । अर्धम् । कृणुतात् । इन्द्र । गोनाम् ॥ava | kṣipa | divaḥ | aśmānam | uccā | yena | śatrum | mandasānaḥ | ni-jūrvāḥ | tokasya | sātau | tanayasya | bhūreḥ | asmān | ardham | kṛṇutāt | indra | gonām