Sukta 2.30
बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् । यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र ॥
बृह॑स्पते॒ तपु॒षाश्ने॑व विध्य॒ वृक॑द्वरसो॒ असु॑रस्य वी॒रान् । यथा॑ ज॒घन्थ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिन्द्र ॥
bṛ́haspate tápūṣā́śneva vidhya vṛ́ka-dvaraso ásurasya vīrā́n | yáthā jaghántha dhṛṣatā́ purā́ cid evā́ jahi śátrum asmā́kam indra ||
O Bṛhaspati, pierce with the heat as with a stone the heroes of the Asura whose gates are wolf-like. As once you struck them down with bold force, so now too slay our enemy, O Indra.
बृह॑स्पते । तपु॑षा । अश्ना॑ऽइव । वि॒ध्य॒ । वृक॑ऽद्वरसः । असु॑रस्य । वी॒रान् । यथा॑ । ज॒घन्थ॑ । धृ॒ष॒ता । पु॒रा । चि॒त् । ए॒व । ज॒हि॒ । शत्रु॑म् । अ॒स्माक॑म् । इ॒न्द्र॒ ॥बृहस्पते । तपुषा । अश्नाइव । विध्य । वृकद्वरसः । असुरस्य । वीरान् । यथा । जघन्थ । धृषता । पुरा । चित् । एव । जहि । शत्रुम् । अस्माकम् । इन्द्र ॥bṛhaspate | tapuṣā | aśnāiva | vidhya | vṛka-dvarasaḥ | asurasya | vīrān | yathā | jaghantha | dhṛṣatā | purā | cit | eva | jahi | śatrum | asmākam | indra