Sukta 2.30
ऊर्ध्वो ह्यस्थादध्यन्तरिक्षेऽधा वृत्राय प्र वधं जभार । मिहं वसान उप हीमदुद्रोत्तिग्मायुधो अजयच्छत्रुमिन्द्रः ॥
ऊ॒र्ध्वो ह्यस्था॒दध्य॒न्तरि॒क्षेऽधा॑ वृ॒त्राय॒ प्र व॒धं ज॑भार । मिहं॒ वसा॑न॒ उप॒ हीमदु॑द्रोत्ति॒ग्मायु॑धो अजय॒च्छत्रु॒मिन्द्र॑: ॥
ūrdhvó hy ásthād ádhy antárikṣe ’dhā vṛtrā́ya prá vadháṃ jabhāra | míhaṃ vásāna úpa hīm ádudrot tig्मā́yudho ajáyac chátrum índraḥ ||
Upright he stood in the mid-region, and then against Vṛtra he bore forth the stroke of destruction. Clothed in the rain of power he rushed upon him; with sharp weapon he conquered the enemy—Indra.
ऊ॒र्ध्वः । हि । अस्था॑त् । अधि॑ । अ॒न्तरि॑क्षे । अध॑ । वृ॒त्राय॑ । प्र । व॒धम् । ज॒भा॒र॒ । मिह॑म् । वसा॑नः । उप॑ । हि । ई॒म् । अदु॑द्रोत् । ति॒ग्मऽआ॑युधः । अ॒ज॒य॒त् । शत्रु॑म् । इन्द्रः॑ ॥ऊर्ध्वः । हि । अस्थात् । अधि । अन्तरिक्षे । अध । वृत्राय । प्र । वधम् । जभार । मिहम् । वसानः । उप । हि । ईम् । अदुद्रोत् । तिग्मआयुधः । अजयत् । शत्रुम् । इन्द्रः ॥ūrdhvaḥ | hi | asthāt | adhi | antarikṣe | adha | vṛtrāya | pra | vadham | jabhāra | miham | vasānaḥ | upa | hi | īm | adudrot | tigma-āyudhaḥ | ajayat | śatrum | indraḥ