Sukta 2.30
यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच । पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम् ॥
यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच । प॒थो रद॑न्ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो य॒न्त्यर्थ॑म् ॥
yó vṛtrā́ya sínam átrā́bhariṣyat, prá táṃ janitrī́ vidúṣa uvāca | pathó rádantīr ánu jóṣam asmai divé-divé dhúnayo yánty ártham ||
He who here was about to bring the driving force against Vṛtra—of him the Mother of births spoke forth to the knower. And the powers that open the paths, consenting to him, go day by day toward the intended goal.
यः । वृ॒त्राय॑ । सिन॑म् । अत्र॑ । अभ॑रिष्यत् । प्र । तम् । जनि॑त्री । वि॒दुषे॑ । उ॒वा॒च॒ । प॒थः । रद॑न्तीः । अनु॑ । जोष॑म् । अ॒स्मै॒ । दि॒वेऽदि॑वे । धुन॑यः । य॒न्ति॒ । अर्थ॑म् ॥यः । वृत्राय । सिनम् । अत्र । अभरिष्यत् । प्र । तम् । जनित्री । विदुषे । उवाच । पथः । रदन्तीः । अनु । जोषम् । अस्मै । दिवेदिवे । धुनयः । यन्ति । अर्थम् ॥yaḥ | vṛtrāya | sinam | atra | abhariṣyat | pra | tam | janitrī | viduṣe | uvāca | pathaḥ | radantīḥ | anu | joṣam | asmai | dive--dive | dhunayaḥ | yanti | artham