Sukta 2.30
ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः । अहरहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम् ॥
ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इन्द्रा॑याहि॒घ्ने न र॑मन्त॒ आप॑: । अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसाम् ॥
ṛtáṃ devā́ya kṛṇvaté savitré índrāyāhíghne ná ramante ā́paḥ | áhar-ahar yāty aktúr apā́ṃ kíyaty ā́ prathamáḥ sárga āsām ||
The waters take delight in the god Savitṛ who fashions the ṛta, and in Indra the slayer of the constrictor; day by day they move. In the night too the measure of the waters advances; this is their first outpouring.
ऋ॒तम् । दे॒वाय॑ । कृ॒ण्व॒ते । स॒वि॒त्रे । इन्द्रा॑य । अ॒हि॒ऽघ्ने । न । र॒म॒न्ते॒ । आपः॑ । अहः॑ऽअहः । या॒ति॒ । अ॒क्तुः । अ॒पाम् । किय॑ति । आ । प्र॒थ॒मः । सर्गः॑ । आ॒सा॒म् ॥ऋतम् । देवाय । कृण्वते । सवित्रे । इन्द्राय । अहिघ्ने । न । रमन्ते । आपः । अहःअहः । याति । अक्तुः । अपाम् । कियति । आ । प्रथमः । सर्गः । आसाम् ॥ṛtam | devāya | kṛṇvate | savitre | indrāya | ahi-ghne | na | ramante | āpaḥ | ahaḥ-ahaḥ | yāti | aktuḥ | apām | kiyati | ā | prathamaḥ | sargaḥ | āsām