Sukta 2.30
तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् । यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे ॥
तं व॒: शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जन॑म् । यथा॑ र॒यिं सर्व॑वीरं॒ नशा॑महा अपत्य॒साचं॒ श्रुत्यं॑ दि॒वेदि॑वे ॥
táṃ vaḥ śárdhaṃ mārútaṃ sumná-yur gíropá bruve námasā daívyaṃ jánam | yáthā rayíṃ sárva-vīraṃ náśāmahai apatyá-sācaṃ śrútyaṃ divé-divé ||
That Marut-host of yours—the divine people—I address with a word, seeking their grace, with obeisance: so that we may reach the plenitude that is rich in all heroic powers, that brings offspring of the soul, and is worthy to be heard of, day by day.
तम् । वः॒ । शर्ध॑म् । मारु॑तम् । सु॒म्न॒ऽयुः । गि॒रा । उप॑ । ब्रु॒वे॒ । नम॑सा । दैव्य॑म् । जन॑म् । यथा॑ । र॒यिम् । सर्व॑ऽवीरम् । नशा॑महै । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । दि॒वेऽदि॑वे ॥तम् । वः । शर्धम् । मारुतम् । सुम्नयुः । गिरा । उप । ब्रुवे । नमसा । दैव्यम् । जनम् । यथा । रयिम् । सर्ववीरम् । नशामहै । अपत्यसाचम् । श्रुत्यम् । दिवेदिवे ॥tam | vaḥ | śardham | mārutam | sumna-yuḥ | girā | upa | bruve | namasā | daivyam | janam | yathā | rayim | sarva-vīram | naśāmahai | apatya-sācam | śrutyam | d ive--dive