Sukta 2.29
अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् । त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः ॥
अ॒र्वाञ्चो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् । त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः ॥
arvā́ñco adyā́ bhavatā yajatrā ā́ vo hā́rdi bháyamāno vyayeyam | trā́dhvaṃ no devā nijúro vṛ́kasya trā́dhvaṃ kartā́d avapádo yajatrāḥ ||
Turn toward us today, O adorable gods, that I, fearing in my heart, may find release into you. Save us, O gods, from the stealth of the wolfish force; save us from the doer of the fall, O worshipful ones.
अ॒र्वाञ्चः॑ । अ॒द्य । भ॒व॒ता॒ । य॒ज॒त्राः॒ । आ । वः॒ । हार्दि॑ । भय॑मानः । व्य॒ये॒य॒म् । त्राध्व॑म् । नः॒ । दे॒वाः॒ । नि॒ऽजुरः॑ । वृक॑स्य । त्राध्व॑म् । क॒र्तात् । अ॒व॒ऽपदः॑ । य॒ज॒त्राः॒ ॥अर्वाञ्चः । अद्य । भवता । यजत्राः । आ । वः । हार्दि । भयमानः । व्ययेयम् । त्राध्वम् । नः । देवाः । निजुरः । वृकस्य । त्राध्वम् । कर्तात् । अवपदः । यजत्राः ॥arvāñcaḥ | adya | bhavatā | yajatrāḥ | ā | vaḥ | hārdi | bhayamānaḥ | vyayeyam | trādhvam | naḥ | devāḥ | ni-juraḥ | vṛkasya | trādhvam | kartāt | ava-padaḥ | yajatrāḥ