Sukta 2.26
यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये । हविष्कृणुष्व सुभगो यथाससि ब्रह्मणस्पतेरव आ वृणीमहे ॥
यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मन॑: कृणुष्व वृत्र॒तूर्ये॑ । ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥
yáj asva vī́ra prá víhi manāyató bhadráṃ mánaḥ kṛṇuṣva vṛtra-tū́rye | havíḥ kṛṇuṣva su-bhágo yáthā́sasi bráhmaṇas patér áva ā́ vṛṇīmahe ||
Sacrifice, O hero; cast forward the will that seeks—make the mind a blessed and luminous instrument in the breaking of the Coverer. Prepare the offering so that thou becomest fortunate in the right way of attainment; we choose and call down the protective help of Brahmaṇaspati.
यज॑स्व । वी॒र॒ । प्र । वि॒हि॒ । म॒ना॒य॒तः । भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ । ह॒विः । कृ॒णु॒ष्व॒ । सु॒ऽभगः॑ । यथा॑ । अस॑सि । ब्रह्म॑णः । पतेः॑ । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥यजस्व । वीर । प्र । विहि । मनायतः । भद्रम् । मनः । कृणुष्व । वृत्रतूर्ये । हविः । कृणुष्व । सुभगः । यथा । अससि । ब्रह्मणः । पतेः । अवः । आ । वृणीमहे ॥yajasva | vīra | pra | vihi | manāyataḥ | bhadram | manaḥ | kṛṇuṣva | vṛtra-tūrye | haviḥ | kṛṇuṣva | su-bhagaḥ | yathā | asasi | brahmaṇaḥ | pateḥ | avaḥ | ā | vṛṇīmahe