Sukta 2.26
ऋजुरिच्छंसो वनवद्वनुष्यतो देवयन्निददेवयन्तमभ्यसत् । सुप्रावीरिद्वनवत्पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम् ॥
ऋ॒जुरिच्छंसो॑ वनवद्वनुष्य॒तो दे॑व॒यन्निददे॑वयन्तम॒भ्य॑सत् । सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ॥
ṛjúricchā́ṃso vanavad vanuṣyató deváyann íd adeva-yantám abhy àsat | suprāvī́r íd vanavat pṛtsú duṣṭáraṃ yajvā́ íd ayajyór ví bhajāti bhójanam ||
Straight and true is the utterance that seeks; it wins like a conqueror for the one who strives, and it assails the godless will by the very power of aspiration for the Divine. It wins a rich hero-force even in the hard battles; the sacrificer (the doer of the inner offering) divides and apportions the nourishment of being, separating it from what cannot and will not sacrifice.
ऋ॒जुः । इत् । शंसः॑ । व॒न॒व॒त् । व॒नु॒ष्य॒तः । दे॒व॒यन् । इत् । अदे॑वऽयन्तम् । अ॒भि । अ॒स॒त् । सु॒प्र॒ऽअ॒वीः । इत् । व॒न॒व॒त् । पृ॒त्ऽसु । दु॒स्तर॑म् । यज्वा॑ । इत् । अयज्योः॑ । वि । भ॒जा॒ति॒ । भोज॑नम् ॥ऋजुः । इत् । शंसः । वनवत् । वनुष्यतः । देवयन् । इत् । अदेवयन्तम् । अभि । असत् । सुप्रअवीः । इत् । वनवत् । पृत्सु । दुस्तरम् । यज्वा । इत् । अयज्योः । वि । भजाति । भोजनम् ॥ṛjuḥ | it | śaṃsaḥ | vanavat | vanuṣyataḥ | devayan | it | adeva-yantam | abhi | asat | supra-avīḥ | it | vanavat | pṛt-su | dustaram | yajvā | it | ayajyoḥ | vi | bhajāti | bhojanam