Sukta 2.25
तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति । अनिभृष्टतविषिर्हन्त्योजसा यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
तस्मा॑ अर्षन्ति दि॒व्या अ॑स॒श्चत॒: स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति । अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥
tásmā arṣanti divyā́ asaścátaḥ sá sátvabhiḥ prathamó góṣu gacchati | anibhṛṣṭa-tavíṣir hánty ójasā yaṃ-yáṃ yújaṃ kṛṇuté bráhmaṇas-pátiḥ ||
To him the divine streams flow, unbroken; with his powers he goes first among the Rays. With energy that cannot be crushed he smites by might—he for whom Brahmaṇaspati makes every yoke-fellow power.
तस्मै॑ । अ॒र्ष॒न्ति॒ । दि॒व्याः । अ॒स॒श्चतः॑ । सः । सत्व॑ऽभिः । प्र॒थ॒मः । गोषु॑ । ग॒च्छ॒ति॒ । अनि॑भृष्टऽतविषिः । ह॒न्ति॒ । ओज॑सा । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥तस्मै । अर्षन्ति । दिव्याः । असश्चतः । सः । सत्वभिः । प्रथमः । गोषु । गच्छति । अनिभृष्टतविषिः । हन्ति । ओजसा । यम्यम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥tasmai | arṣanti | divyāḥ | asaścataḥ | saḥ | satva-bhiḥ | prathamaḥ | goṣu | gacchati | anibhṛṣṭa-taviṣiḥ | hanti | ojasā | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ