Sukta 2.25
सिन्धुर्न क्षोदः शिमीवाँ ऋघायतो वृषेव वध्रीँरभि वष्ट्योजसा । अग्नेरिव प्रसितिर्नाह वर्तवे यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
सिन्धु॒र्न क्षोद॒: शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा । अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥
síndhur ná kṣódaḥ śimī́vān ṛghāyató vṛ́ṣeva vádhrīm̐r abhí váṣṭy ójasā | agnér iva prá-sitir nā́ha vártave yaṃ-yáṃ yújaṃ kṛṇuté bráhmaṇas-pátiḥ ||
Like a river in flood, forceful, against the crooked adversary, he smites with power as a bull strikes down the bound restraints. Like Agni’s forward drive, there is no turning him back—he for whom Brahmaṇaspati makes every yoke-fellow power.
सिन्धुः॑ । न । क्षोदः॑ । शिमी॑ऽवान् । ऋ॒घा॒य॒तः । वृषा॑ऽइव । वध्री॑न् । अ॒भि । व॒ष्टि॒ । ओज॑सा । अ॒ग्नेःऽइ॑व । प्रऽसि॑तिः । न । अ॑ह । वर्त॑वे । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥सिन्धुः । न । क्षोदः । शिमीवान् । ऋघायतः । वृषाइव । वध्रीन् । अभि । वष्टि । ओजसा । अग्नेःइव । प्रसितिः । न । अह । वर्तवे । यम्यम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥sindhuḥ | na | kṣodaḥ | śimī-vān | ṛghāyataḥ | vṛṣāiva | vadhrīn | abhi | vaṣṭi | ojasā | agneḥ-iva | pra-sitiḥ | na | aha | vartave | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ