Sukta 2.21
यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः । अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत ॥
य॒ज्ञेन॑ गा॒तुम॒प्तुरो॑ विविद्रिरे॒ धियो॑ हिन्वा॒ना उ॒शिजो॑ मनी॒षिण॑: । अ॒भि॒स्वरा॑ नि॒षदा॒ गा अ॑व॒स्यव॒ इन्द्रे॑ हिन्वा॒ना द्रवि॑णान्याशत ॥
yajñéna gātúm aptúro vividrire dhíyo hinvānā́ uśíjo manīṣíṇaḥ | abhí-svarā niṣádā gā́ avasyávo índre hinvānā́ dráviṇāny āśata ||
By the sacrifice the apturas found the path; stirring their thoughts, the eager, the wise. With the cry toward the Light, sitting in the session, desiring help, they urged themselves in Indra and attained the plenitudes.
य॒ज्ञेन॑ । गा॒तुम् । अ॒प्ऽतुरः॑ । वि॒वि॒द्रि॒रे॒ । धियः॑ । हि॒न्वा॒नाः । उ॒शिजः॑ । म॒नी॒षिणः॑ । अ॒भि॒ऽस्वरा॑ । नि॒ऽसदा॑ । गाः । अ॒व॒स्यवः॑ । इन्द्रे॑ । हि॒न्वा॒नाः । द्रवि॑णानि । आ॒श॒त॒ ॥यज्ञेन । गातुम् । अप्तुरः । विविद्रिरे । धियः । हिन्वानाः । उशिजः । मनीषिणः । अभिस्वरा । निसदा । गाः । अवस्यवः । इन्द्रे । हिन्वानाः । द्रविणानि । आशत ॥yajñena | gātum | apturaḥ | vividrire | dhiyaḥ | hinvānāḥ | uśijaḥ | manīṣiṇaḥ | abhi-svarā | ni-sadā | gāḥ | avasyavaḥ | indre | hinvānāḥ | draviṇāni | āśata