Sukta 2.21
इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे । पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् ॥
इन्द्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे । पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑ वा॒चः सु॑दिन॒त्वमह्ना॑म् ॥
índra śréṣṭhāni dráviṇāni dhehi cíttiṃ dákṣasya subhagatvám asmē | póṣaṃ rayīṇā́m áriṣṭiṃ tanū́nāṃ svā́dmānaṃ vā́caḥ sudinatvám ahnā́m ||
Indra, place in us the best plenitudes: the right perception of skill, the happy fortune; increase of the rays of richness, the unhurt safety of our being; sweetness of speech and the fair brightness of our days.
इन्द्र॑ । ष्रेष्ठा॑नि । द्रवि॑णानि । धे॒हि॒ । चित्ति॑म् । दक्ष॑स्य । सु॒ऽभ॒ग॒त्वम् । अ॒स्मे इति॑ । पोष॑म् । र॒यी॒णाम् । अरि॑ष्टिम् । त॒नूना॑म् । स्वा॒द्मान॑म् । वा॒चः । सु॒दि॒न॒ऽत्वम् । अह्ना॑म् ॥इन्द्र । ष्रेष्ठानि । द्रविणानि । धेहि । चित्तिम् । दक्षस्य । सुभगत्वम् । अस्मे इति । पोषम् । रयीणाम् । अरिष्टिम् । तनूनाम् । स्वाद्मानम् । वाचः । सुदिनत्वम् । अह्नाम् ॥indra | śreṣṭhāni | draviṇāni | dhehi | cittim | dakṣasya | su-bhagatvam | asme iti | poṣam | rayīṇām | ariṣṭim | tanūnām | svādmānam | vācaḥ | sudina-tvam | ahnām