Sukta 2.21
अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः । रध्रचोदः श्नथनो वीळितस्पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत् ॥
अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो ग॑म्भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः । र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिन्द्र॑: सुय॒ज्ञ उ॒षस॒: स्व॑र्जनत् ॥
anānudó vṛṣabhó dódhato vadhó gambhīrá ṛ́ṣvo asamaṣṭa-kāvyaḥ | radhra-codáḥ śnáthano vīḷitáspṛthur índraḥ su-yajñá uṣásaḥ svàr janat ||
Indra, who cannot be driven back, the bull; a deep and lofty power of smiting for the shaking adversary; unmatched in the inspired word; impelling the straight course, crushing resistance, wide and far-reaching—he brought forth the luminous world for the Dawns.
अ॒न॒नु॒ऽदः । वृ॒ष॒भः । दोध॑तः । व॒धः । ग॒म्भी॒रः । ऋ॒ष्वः । अस॑मष्टऽकाव्यः । र॒ध्र॒ऽचो॒दः । श्नथ॑नः । वी॒ळि॒तः । पृ॒थुः । इन्द्रः॑ । सु॒ऽय॒ज्ञः । उ॒षसः॑ । स्वः॑ । ज॒न॒त् ॥अननुदः । वृषभः । दोधतः । वधः । गम्भीरः । ऋष्वः । असमष्टकाव्यः । रध्रचोदः । श्नथनः । वीळितः । पृथुः । इन्द्रः । सुयज्ञः । उषसः । स्वः । जनत् ॥ananu-daḥ | vṛṣabhaḥ | dodhataḥ | vadhaḥ | gambhīraḥ | ṛṣvaḥ | asamaṣṭa-kāvyaḥ | radhra-codaḥ | śnathanaḥ | vīḷitaḥ | pṛthuḥ | indraḥ | su-yajñaḥ | uṣasaḥ | svaḥ | janat