Sukta 2.21
सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः । वृतंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या ॥
स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः । वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा॑रि॒त इन्द्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या॑ ॥
satrā́sāho janabhakṣó janaṃsaháś cyávanó yudhmó ánu jóṣam ukṣitáḥ | vṛtáṃcayáḥ sáhurir vikṣv ā́ritá índrasya vocaṃ prá kṛtā́ni vīryā́ ||
Ever-victorious, devourer of hostile multitudes, overpowerer of men, the mover, the fighter, he who grows by delight; he who piles up the right and smites, active among the clans—of Indra I proclaim the accomplished heroic powers.
स॒त्रा॒ऽस॒हः । ज॒न॒ऽभ॒क्षः । ज॒न॒म्ऽस॒हः । च्यव॑नः । यु॒ध्मः । अनु॑ । जोष॑म् । क्षि॒तः । वृ॒त॒म्ऽच॒यः । सहु॑रिः । वि॒क्षु । आ॒रि॒तः । इन्द्र॑स्य । वोच॑म् । प्र । कृ॒तानि॑ । वी॒र्या॑ ॥सत्रासहः । जनभक्षः । जनम्सहः । च्यवनः । युध्मः । अनु । जोषम् । क्षितः । वृतम्चयः । सहुरिः । विक्षु । आरितः । इन्द्रस्य । वोचम् । प्र । कृतानि । वीर्या ॥satrāsahaḥ | jana-bhakṣaḥ | janam-sahaḥ | cyavanaḥ | yudhmaḥ | anu | joṣam | kṣitaḥ | vṛtam-cayaḥ | sahuriḥ | vikṣu | āritaḥ | indrasya | vocam | pra | kṛtāni | vīryā