Sukta 2.19
एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः । अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः ॥
ए॒वा त॑ इन्द्रो॒चथ॑महेम श्रव॒स्या न त्मना॑ वा॒जय॑न्तः । अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥
evā́ ta indrocátham ahema śravasyā́ ná tmanā́ vājáyantaḥ | aśyā́ma tát sā́ptam āśuṣāṇā́ nanámo vádhar ádevasya pīyóḥ ||
Thus, O Indra, we would utter your laud for fame, striving by our own self to win the plenitudes. May we attain that seventh (step/realm), pressing forward; may the weapon of the godless, the swelling hostile force, bow down before us.
ए॒व । ते॒ । इ॒न्द्र॒ । उ॒चथ॑म् । अ॒हे॒म॒ । श्र॒व॒स्या । न । त्मना॑ । वा॒जय॑न्तः । अ॒श्याम॑ । तत् । साप्त॑म् । आ॒शु॒षा॒णाः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥एव । ते । इन्द्र । उचथम् । अहेम । श्रवस्या । न । त्मना । वाजयन्तः । अश्याम । तत् । साप्तम् । आशुषाणाः । ननमः । वधः । अदेवस्य । पीयोः ॥eva | te | indra | ucatham | ahema | śravasyā | na | tmanā | vājayantaḥ | aśyāma | tat | sāptam | āśuṣāṇāḥ | nanamaḥ | vadhaḥ | adevasya | pīyoḥ