Sukta 2.19
स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय । दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य ॥
स र॑न्धयत्स॒दिव॒: सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा॑य । दिवो॑दासाय नव॒तिं च॒ नवेन्द्र॒: पुरो॒ व्यै॑र॒च्छम्ब॑रस्य ॥
sá randhayat sa-dívaḥ sā́rathaye śúṣṇam aśúṣaṃ kúyavaṃ kútsāya | divódāsāya navatíṃ ca návéndraḥ puró vyàirac chámbarasya ||
He subdued Śuṣṇa, the drying one, and Kuyava for Kutsa, the charioteer of the heavenly. For Divodāsa, Indra broke open ninety and nine strongholds of Śambara.
सः । र॒न्ध॒य॒त् । स॒ऽदिवः॑ । सार॑थये । शुष्ण॑म् । अ॒शुष॑म् । कुय॑वम् । कुत्सा॑य । दिवः॑ऽदासाय । न॒व॒तिम् । च॒ । नव॑ । इन्द्रः॑ । पुरः॑ । वि । ऐ॒र॒त् । शम्ब॑रस्य ॥सः । रन्धयत् । सदिवः । सारथये । शुष्णम् । अशुषम् । कुयवम् । कुत्साय । दिवःदासाय । नवतिम् । च । नव । इन्द्रः । पुरः । वि । ऐरत् । शम्बरस्य ॥saḥ | randhayat | sa-divaḥ | sārathaye | śuṣṇam | aśuṣam | kuyavam | kutsāya | d ivaḥ-dāsāya | navatim | ca | nava | indraḥ | puraḥ | vi | airat | śambarasya