Sukta 2.19
एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः । ब्रह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः ॥
ए॒वा ते॑ गृत्सम॒दाः शू॑र॒ मन्मा॑व॒स्यवो॒ न व॒युना॑नि तक्षुः । ब्र॒ह्म॒ण्यन्त॑ इन्द्र ते॒ नवी॑य॒ इष॒मूर्जं॑ सुक्षि॒तिं सु॒म्नम॑श्युः ॥
evā́ te gṛtsa-madā́ḥ śūra mánmā́vasyavo ná vayúnāni takṣuḥ | brahmaṇyánta indra te navī́ya iṣám ūrjáṃ su-kṣitím sumnám aśyuḥ ||
Thus the Gṛtsamada seers, desiring your help, O hero, have fashioned their thoughts like skilful workings. Seeking the Word, O Indra, they have reached your newer (higher) gift: the impulsion and the increase, a good settled state, and the grace of plenitude.
ए॒व । ते॒ । गृ॒त्स॒ऽम॒दाः । शू॒र॒ । मन्म॑ । अ॒व॒स्यवः॑ । न । व॒युना॑नि । त॒क्षुः॒ । ब्र॒ह्म॒ण्यन्तः॑ । इ॒न्द्र॒ । ते॒ । नवी॑यः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । सु॒म्नम् । अ॒श्युः॒ ॥एव । ते । गृत्समदाः । शूर । मन्म । अवस्यवः । न । वयुनानि । तक्षुः । ब्रह्मण्यन्तः । इन्द्र । ते । नवीयः । इषम् । ऊर्जम् । सुक्षितिम् । सुम्नम् । अश्युः ॥eva | te | gṛtsa-madāḥ | śūra | manma | avasyavaḥ | na | vayunāni | takṣuḥ | brahmaṇyantaḥ | indra | te | navīyaḥ | iṣam | ūrjam | su-kṣitim | sumnam | aśyuḥ