Sukta 2.19
स सुन्वत इन्द्रः सूर्यमा देवो रिणङ्मर्त्याय स्तवान् । आ यद्रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन् ॥
स सु॑न्व॒त इन्द्र॒: सूर्य॒मा दे॒वो रि॑ण॒ङ्मर्त्या॑य स्त॒वान् । आ यद्र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ॥
sá sunvatá índraḥ sū́ryam ā́ devó riṇáṅ mártyāya stavā́n | ā́ yád rayíṃ gúhad avadyám asmai bhárad áṃśaṃ ná ét aśo daśasyán ||
To the presser, Indra the god brings near the Sun for the mortal who praises. And when he brings to him the hidden plenitude, faultless, he bears it as a due portion, like Etaśa bringing the share, in the act of service.
सः । सु॒न्व॒ते । इन्द्रः॑ । सूर्य॑म् । आ । दे॒वः । रि॒ण॒क् । मर्त्या॑य । स्त॒वान् । आ । यत् । र॒यिम् । ग्ह॒त्ऽअ॑वद्यम् । अ॒स्मै॒ । भर॑त् । अंश॑म् । न । एत॑शः । द॒श॒स्यन् ॥सः । सुन्वते । इन्द्रः । सूर्यम् । आ । देवः । रिणक् । मर्त्याय । स्तवान् । आ । यत् । रयिम् । ग्हत्अवद्यम् । अस्मै । भरत् । अंशम् । न । एतशः । दशस्यन् ॥saḥ | sunvate | indraḥ | sūryam | ā | devaḥ | riṇak | martyāya | stavān | ā | yat | rayim | ghat-avadyam | asmai | bharat | aṃśam | na | etaśaḥ | daśasyan