Sukta 2.19
सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद्दाशुषे हन्ति वृत्रम् । सद्यो यो नृभ्यो अतसाय्यो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ ॥
सो अ॑प्र॒तीनि॒ मन॑वे पु॒रूणीन्द्रो॑ दाशद्दा॒शुषे॒ हन्ति॑ वृ॒त्रम् । स॒द्यो यो नृभ्यो॑ अत॒साय्यो॒ भूत्प॑स्पृधा॒नेभ्य॒: सूर्य॑स्य सा॒तौ ॥
só apratī́ni mánave purū́ṇī́ndro dāśad dāśúṣe hánti vṛtrám | sadyó yó nṛ́bhyo atasā́yyo bhū́t paspṛdhānébhyaḥ sū́ryasya sātáu ||
He, Indra, gave to Manu many irresistible boons; he slays Vṛtra for the giver. He who becomes at once unconquerable for men, in the winning of the Sun, against those who strive in hostility.
सः । अ॒प्र॒तीनि॑ । मन॑वे । पु॒रूणि॑ । इन्द्रः॑ । दा॒श॒त् । दा॒शुषे॑ । हन्ति॑ । वृ॒त्रम् । स॒द्यः । यः । नृऽभ्यः॑ । अ॒त॒साय्यः॑ । भूत् । प॒स्पृ॒धा॒नेभ्यः॑ । सूर्य॑स्य । सा॒तौ ॥सः । अप्रतीनि । मनवे । पुरूणि । इन्द्रः । दाशत् । दाशुषे । हन्ति । वृत्रम् । सद्यः । यः । नृभ्यः । अतसाय्यः । भूत् । पस्पृधानेभ्यः । सूर्यस्य । सातौ ॥saḥ | apratīni | manave | purūṇi | indraḥ | dāśat | dāśuṣe | hanti | vṛtram | sadyaḥ | yaḥ | nṛ-bhyaḥ | atasāyyaḥ | bhūt | paspṛdhānebhyaḥ | sūryasya | sātau