Sukta 2.19
स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम् । अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत् ॥
स माहि॑न॒ इन्द्रो॒ अर्णो॑ अ॒पां प्रैर॑यदहि॒हाच्छा॑ समु॒द्रम् । अज॑नय॒त्सूर्यं॑ वि॒दद्गा अ॒क्तुनाह्नां॑ व॒युना॑नि साधत् ॥
sá mā́hina índro árṇo apā́ṃ práirayat ahi-hā́cchā samudrám | ájanayat sū́ryaṃ vídad gā́ aktúnā́hnāṃ vayúnāni sādhat ||
That mighty Indra, slayer of the serpent, drove forth the flood of the waters toward the ocean. He brought the Sun into birth, he found the Rays (cows), and by night and day he accomplished the workings of ordered discernment.
सः । माहि॑नः । इन्द्रः॑ । अर्णः॑ । अ॒पाम् । प्र । ऐ॒र॒य॒त् । अ॒हि॒ऽहा । अच्छ॑ । स॒मु॒द्रम् । अज॑नयत् । सूर्य॑म् । वि॒दत् । गाः । अ॒क्तुना॑ । अह्ना॑म् । व॒युना॑नि । सा॒ध॒त् ॥सः । माहिनः । इन्द्रः । अर्णः । अपाम् । प्र । ऐरयत् । अहिहा । अच्छ । समुद्रम् । अजनयत् । सूर्यम् । विदत् । गाः । अक्तुना । अह्नाम् । वयुनानि । साधत् ॥saḥ | māhinaḥ | indraḥ | arṇaḥ | apām | pra | airayat | ahi-hā | accha | samudram | ajanayat | sūryam | vidat | gāḥ | aktunā | ahnām | vayunāni | sādhat