Sukta 2.19
अस्य मन्दानो मध्वो वज्रहस्तोऽहिमिन्द्रो अर्णोवृतं वि वृश्चत् । प्र यद्वयो न स्वसराण्यच्छा प्रयांसि च नदीनां चक्रमन्त ॥
अ॒स्य म॑न्दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिन्द्रो॑ अर्णो॒वृतं॒ वि वृ॑श्चत् । प्र यद्वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां॑सि च न॒दीनां॒ चक्र॑मन्त ॥
asyá mandānó mádhvo vájrahasto 'hím índro arṇóvṛtaṃ ví vṛścat | prá yád váyo ná svásarāṇy ácchā práyāṃsi ca nadī́nāṃ cákramanta ||
Rejoicing in this sweetness, Indra, the wielder of the thunder-force, cut apart the serpent who had covered the flood. Then, like birds to their own streams, the movements and forward rushes of the rivers set themselves in motion.
अ॒स्य । म॒न्दा॒नः । मध्वः॑ । वज्र॑ऽहस्तः । अहि॑म् । इन्द्रः॑ । अ॒र्णः॒ऽवृत॑म् । वि । वृ॒श्च॒त् । प्र । यत् । वयः॑ । न । स्वस॑राणि । अच्छ॑ । प्रयां॑सि । च॒ । न॒दीना॑म् । चक्र॑मन्त ॥अस्य । मन्दानः । मध्वः । वज्रहस्तः । अहिम् । इन्द्रः । अर्णःवृतम् । वि । वृश्चत् । प्र । यत् । वयः । न । स्वसराणि । अच्छ । प्रयांसि । च । नदीनाम् । चक्रमन्त ॥asya | mandānaḥ | madhvaḥ | vajra-hastaḥ | ahim | indraḥ | arṇaḥ-vṛtam | vi | vṛścat | pra | yat | vayaḥ | na | svasarāṇi | accha | prayāṃsi | ca | nadīnām | cakramanta