Sukta 2.19
अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः । यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरः ॥
अपा॑य्य॒स्यान्ध॑सो॒ मदा॑य॒ मनी॑षिणः सुवा॒नस्य॒ प्रय॑सः । यस्मि॒न्निन्द्र॑: प्र॒दिवि॑ वावृधा॒न ओको॑ द॒धे ब्र॑ह्म॒ण्यन्त॑श्च॒ नर॑: ॥
apā́yya syā́ndhaso mádāya manī́ṣiṇaḥ suvāná sya práyasaḥ | yásminn índraḥ prádivi vāvṛdhāná óko dadhé brahmaṇyántaś ca náraḥ ||
The pressed delight has been drunk for ecstasy by the seer of thought, from the offering’s fullness; in that (Soma) Indra, growing in the higher heaven, has set his home, and men who seek the Word are gathered to him.
अपा॑यि । अ॒स्य । अन्ध॑सः । मदा॑य । मनी॑षिणः । सु॒वा॒नस्य॑ । प्रय॑सः । यस्मि॑न् । इन्द्रः॑ । प्र॒ऽदिवि॑ । व॒वृ॒धा॒नः । ओकः॑ । द॒धे । ब्र॒ह्म॒ण्यन्तः॑ । च॒ । नरः॑ ॥अपायि । अस्य । अन्धसः । मदाय । मनीषिणः । सुवानस्य । प्रयसः । यस्मिन् । इन्द्रः । प्रदिवि । ववृधानः । ओकः । दधे । ब्रह्मण्यन्तः । च । नरः ॥apāyi | asya | andhasaḥ | madāya | manīṣiṇaḥ | suvānasya | prayasaḥ | yasm in | indraḥ | pra-divi | vavṛdhānaḥ | okaḥ | dadhe | brahmaṇyantaḥ | ca | naraḥ