Sukta 2.18
न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत । उप ज्येष्ठे वरूथे गभस्तौ प्रायेप्राये जिगीवांसः स्याम ॥
न म॒ इन्द्रे॑ण स॒ख्यं वि यो॑षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत । उप॒ ज्येष्ठे॒ वरू॑थे॒ गभ॑स्तौ प्रा॒येप्रा॑ये जिगी॒वांस॑: स्याम ॥
ná me índreṇa sakhyáṃ ví yoṣad asmábhyam asya dákṣiṇā duhīta | úpa jyéṣṭhe várūthe gábhastau prāyé-prāye jigīvā́ṃsaḥ syāma ||
May my friendship with Indra not be broken; may his Dakṣiṇā, the right-giving power, yield its milk for us. Held close in the elder, supreme protection, in his grasp, may we be those who win again and again at each advance of the journey.
न । मे॒ । इन्द्रे॑ण । स॒ख्यम् । वि । यो॒ष॒त् । अ॒स्मभ्य॑म् । अ॒स्य॒ । दक्षि॑णा । दु॒ही॒त॒ । उप॑ । ज्येष्ठे॑ । वरू॑थे । गभ॑स्तौ । प्रा॒येऽप्रा॑ये । जि॒गी॒वांसः॑ । स्या॒म॒ ॥न । मे । इन्द्रेण । सख्यम् । वि । योषत् । अस्मभ्यम् । अस्य । दक्षिणा । दुहीत । उप । ज्येष्ठे । वरूथे । गभस्तौ । प्रायेप्राये । जिगीवांसः । स्याम ॥na | me | indreṇa | sakhyam | vi | yoṣat | asmabhyam | asya | dakṣiṇā | duhīta | upa | jyeṣṭhe | varūthe | gabhastau | prāye--prāye | jigīvāṃsaḥ | syāma