Sukta 2.18
आ विंशत्या त्रिंशता याह्यर्वाङा चत्वारिंशता हरिभिर्युजानः । आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥
आ विं॑श॒त्या त्रिं॒शता॑ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः । आ प॑ञ्चा॒शता॑ सु॒रथे॑भिरि॒न्द्रा ष॒ष्ट्या स॑प्त॒त्या सो॑म॒पेय॑म् ॥
ā́ viṃśatyā́ triṃśátā yāhy arvā́ṅ ā́ catvāriṃśátā háribhir yujānó | ā́ pañcāśátā suráthēbhir indrā́ ṣaṣṭyā́ saptátyā́ soma-péyam ||
Come toward us with twenty, with thirty; come with forty, yoking your tawny powers. Come, O Indra, with fifty in good chariots; with sixty, with seventy to the Soma-drinking—let the descent be vast and complete.
आ । विं॒श॒त्या । त्रिं॒शता॑ । या॒हि॒ । अ॒र्वाङ् । आ । च॒त्वा॒रिं॒शता॑ । हरि॑ऽभिः । यु॒जा॒नः । आ । प॒ञ्चा॒शता॑ । सु॒ऽरथे॑भिः । इ॒न्द्र॒ । आ । ष॒ष्ट्या । स॒प्त॒त्या । सो॒म॒ऽपेय॑म् ॥आ । विंशत्या । त्रिंशता । याहि । अर्वाङ् । आ । चत्वारिंशता । हरिभिः । युजानः । आ । पञ्चाशता । सुरथेभिः । इन्द्र । आ । षष्ट्या । सप्तत्या । सोमपेयम् ॥ā | viṃśatyā | triṃśatā | yāhi | arvāṅ | ā | catvāriṃśatā | hari-bhiḥ | yujānaḥ | ā | pañcāśatā | su-rathebhiḥ | indra | ā | ṣaṣṭyā | saptatyā | soma-peyam