Sukta 2.18
आ द्वाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः । आष्टाभिर्दशभिः सोमपेयमयं सुतः सुमख मा मृधस्कः ॥
आ द्वाभ्यां॒ हरि॑भ्यामिन्द्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा॑नः । आष्टा॒भिर्द॒शभि॑: सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ॥
ā́ dvā́bhyāṃ háribhyām indra yā́hy ā́ catúrbhir ā́ ṣáḍbhir hū́yamānaḥ | ā́ṣṭā́bhir dáśabhiḥ soma-péyam ayáṃ sutáḥ sumakha mā́ mṛ́dhaskaḥ ||
Come, O Indra, with two tawny powers; come with four, come with six as you are invoked. Come with eight, with ten to the Soma-drinking: here is the pressed delight. O fair in sacrifice, be not a bringer of hurt within us.
आ । द्वाभ्या॑म् । हरि॑ऽभ्याम् । इ॒न्द्र॒ । या॒हि॒ । आ । च॒तुःऽभिः॑ । आ । ष॒ट्ऽभिः । हू॒यमा॑नः । आ । अ॒ष्टा॒भिः । द॒शऽभिः॑ । सो॒म॒ऽपेय॑म् । अ॒यम् । सु॒तः । सु॒ऽम॒ख॒ । मा । मृधः॑ । क॒रिति॑ कः ॥आ । द्वाभ्याम् । हरिभ्याम् । इन्द्र । याहि । आ । चतुःभिः । आ । षट्भिः । हूयमानः । आ । अष्टाभिः । दशभिः । सोमपेयम् । अयम् । सुतः । सुमख । मा । मृधः । करिति कः ॥ā | dvābhyām | hari-bhyām | indra | yāhi | ā | catuḥ-bhiḥ | ā | ṣaṭ-bhiḥ | hūyamānaḥ | ā | aṣṭābhiḥ | daśa-bhiḥ | soma-peyam | ayam | sutaḥ | su-makha | mā | mṛdhaḥ | karitikaḥ