Sukta 2.18
हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन । मो षु त्वामत्र बहवो हि विप्रा नि रीरमन्यजमानासो अन्ये ॥
हरी॒ नु कं॒ रथ॒ इन्द्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे॑न । मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ॥
harī́ nú kaṃ́ rathá índrasya yojam ā́yai sū́ktena vácasā návena | mó ṣú tvām átra bahávo hí viprā́ ní rīraman anyáyajamānāso anyé ||
The two tawny steeds of Indra, indeed, I yoke to his chariot for his coming, with a new and well-fashioned word. Let not many seers here divert you away—other sacrificers, others—drawing you to their call.
हरी॒ इति॑ । नु । क॒म् । रथे॑ । इन्द्र॑स्य । यो॒ज॒म् । आ॒ऽयै । सू॒क्तेन॑ । वच॑सा । नवे॑न । मो इति॑ । सु । त्वाम् । अत्र॑ । ब॒हवः॑ । हि । विप्राः॑ । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये ॥हरी इति । नु । कम् । रथे । इन्द्रस्य । योजम् । आयै । सूक्तेन । वचसा । नवेन । मो इति । सु । त्वाम् । अत्र । बहवः । हि । विप्राः । नि । रीरमन् । यजमानासः । अन्ये ॥harī iti | nu | kam | rathe | indrasya | yojam | āyai | sūktena | vacasā | navena | mo iti | su | tvām | atra | bahavaḥ | hi | viprāḥ | ni | rīraman | yajamānāsaḥ | anye