Sukta 2.18
सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता । अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥
सास्मा॒ अरं॑ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑ष॒: स होता॑ । अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ॑ जनन्त॒ सो अ॒न्येभि॑: सचते॒ जेन्यो॒ वृषा॑ ॥
sā́smā áraṃ prathamáṃ sá dvitī́yam utó tṛtī́yaṃ mánuṣaḥ sá hótā | anyásyā gárbham anyá ū́ jananta só anyébhiḥ sacate jényo vṛ́ṣā ||
He is fit for this first, he for the second, and also for the third: he is the human Hotar within. One begets the womb of another; and he, the noble Bull, consorts with the others—joining powers into a single working.
सः । अ॒स्मै॒ । अर॑म् । प्र॒थ॒मम् । सः । द्वि॒तीय॑म् । उ॒तो इति॑ । तृ॒तीय॑म् । मनु॑षः । सः । होता॑ । अ॒न्यस्याः॑ । गर्भ॑म् । अ॒न्ये । ऊँ॒ इति॑ । ज॒न॒न्त॒ । सः । अ॒न्येभिः॑ । स॒च॒ते॒ । जेन्यः॑ । वृषा॑ ॥सः । अस्मै । अरम् । प्रथमम् । सः । द्वितीयम् । उतो इति । तृतीयम् । मनुषः । सः । होता । अन्यस्याः । गर्भम् । अन्ये । ऊँ इति । जनन्त । सः । अन्येभिः । सचते । जेन्यः । वृषा ॥saḥ | asmai | aram | prathamam | saḥ | dvitīyam | uto iti | tṛtīyam | manuṣaḥ | saḥ | hotā | anyasyāḥ | garbham | anye | oṃ iti | jananta | saḥ | anyebhiḥ | sacate | jenyaḥ | vṛṣā