Sukta 2.18
प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः । दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत् ॥
प्रा॒ता रथो॒ नवो॑ योजि॒ सस्नि॒श्चतु॑र्युगस्त्रिक॒शः स॒प्तर॑श्मिः । दशा॑रित्रो मनु॒ष्य॑: स्व॒र्षाः स इ॒ष्टिभि॑र्म॒तिभी॒ रंह्यो॑ भूत् ॥
prātā́ rathó návo yóji sásniś cáturyugas trikáśaḥ saptáraśmiḥ | dáśāritro manuṣyàḥ svàrṣāḥ sá iṣṭíbhir matíbhī raṃhyó bhūt ||
At dawn the new chariot is yoked—bearing its harness, with four yokes, triple-whip, seven-reined; with ten oars, human, winning the solar world. By our offerings and by our thought-impulsions may it become swift to carry us.
प्रा॒तरिति॑ । रथः॑ । नवः॑ । यो॒जि॒ । सस्निः॑ । चतुः॑ऽयुगः । त्रिऽक॒शः । स॒प्तऽर॑श्मिः । दश॑ऽअरित्रः । म॒नु॒ष्यः॑ । स्वः॒ऽसाः । सः । इ॒ष्टिऽभिः॑ । म॒तिऽभिः॑ । रंह्यः॑ । भू॒त् ॥प्रातरिति । रथः । नवः । योजि । सस्निः । चतुःयुगः । त्रिकशः । सप्तरश्मिः । दशअरित्रः । मनुष्यः । स्वःसाः । सः । इष्टिभिः । मतिभिः । रंह्यः । भूत् ॥prātariti | rathaḥ | navaḥ | yoji | sasniḥ | catuḥ-yugaḥ | tri-kaśaḥ | sapta-raśmiḥ | daśa-aritraḥ | manuṣyaḥ | svaḥ-sāḥ | saḥ | iṣṭi-bhiḥ | mati-bhiḥ | raṃhyaḥ | bhūt