Sukta 2.16
विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरन्ति वृषभाय सश्चते । वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥
विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भर॑न्ति वृष॒भाय॒ सश्च॑ते । वृषा॑ यजस्व ह॒विषा॑ वि॒दुष्ट॑र॒: पिबे॑न्द्र॒ सोमं॑ वृष॒भेण॑ भा॒नुना॑ ॥
viśvé hí asmai yajatā́ya dhṛṣṇáve krátum bháranti vṛṣabhā́ya sáścate | vṛ́ṣā yajasva havíṣā vidúṣṭaraḥ píbendra sómaṃ vṛṣabhéṇa bhānúnā ||
All indeed bring to him, the adorable and daring Bull, the power of will and join him. O Bull, sacrifice with the offering, O most knowing; drink, Indra, the Soma with thy bull-like radiance.
विश्वे॑ । हि । अ॒स्मै॒ । य॒ज॒ताय॑ । धृ॒ष्णवे॑ । क्रतु॑म् । भर॑न्ति । वृ॒ष॒भाय॑ । सश्च॑ते । वृषा॑ । य॒ज॒स्व॒ । ह॒विषा॑ । वि॒दुःऽत॑रः । पिब॑ । इ॒न्द्र॒ । सोम॑म् । वृ॒ष॒भेण॑ । भा॒नुना॑ ॥विश्वे । हि । अस्मै । यजताय । धृष्णवे । क्रतुम् । भरन्ति । वृषभाय । सश्चते । वृषा । यजस्व । हविषा । विदुःतरः । पिब । इन्द्र । सोमम् । वृषभेण । भानुना ॥viśve | hi | asmai | yajatāya | dhṛṣṇave | kratum | bharanti | vṛṣabhāya | saścate | vṛṣā | yajasva | haviṣā | viduḥ-taraḥ | piba | indra | somam | vṛṣabheṇa | bhānunā