Sukta 2.16
वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे । वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥
वृष्ण॒: कोश॑: पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना॑य वृष॒भाय॒ पात॑वे । वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒ अद्र॑यो॒ वृष॑णं॒ सोमं॑ वृष॒भाय॑ सुष्वति ॥
vṛ́ṣṇaḥ kóśaḥ pavate mádhva ūŕmir vṛṣabhā́n nā́ya vṛṣabhā́ya pātáve | vṛ́ṣaṇādhvaryū vṛṣabhā́so ádrayo vṛ́ṣaṇaṃ sómaṃ vṛṣabhā́ya suṣvati ||
The strong vessel streams; the wave of sweetness flows for the Bull as food, for the Bull to drink. The strong Adhvaryus, the bull-like pressing-stones, press the strong Soma for the Bull.
वृष्णः॒ । कोशः॑ । प॒व॒ते॒ । मध्वः॑ । ऊ॒र्मिः । वृ॒ष॒भऽअ॑न्नाय । वृ॒ष॒भाय॑ । पात॑वे । वृष॑णा । अ॒ध्व॒र्यू इति॑ । वृ॒ष॒भासः॑ । अद्र॑यः । वृष॑णम् । सोम॑म् । वृ॒ष॒भाय॑ । सु॒स्व॒ति॒ ॥वृष्णः । कोशः । पवते । मध्वः । ऊर्मिः । वृषभअन्नाय । वृषभाय । पातवे । वृषणा । अध्वर्यू इति । वृषभासः । अद्रयः । वृषणम् । सोमम् । वृषभाय । सुस्वति ॥vṛṣṇaḥ | kośaḥ | pavate | madhvaḥ | ūrmiḥ | vṛṣabha-annāya | vṛṣabhāya | pātave | vṛṣaṇā | adhvaryū iti | vṛṣabhāsaḥ | adrayaḥ | vṛṣaṇam | somam | vṛṣabhāya | susvati