Sukta 2.16
न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः । न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु ॥
न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथ॑: । न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभि॒: पत॑सि॒ योज॑ना पु॒रु ॥
ná kṣoṇī́bhyāṃ paribhvé ta indríyaṃ ná samudráiḥ párvatair indra te ráthaḥ | ná te vájram ánv aśnoti káś caná yad āśúbhiḥ pátasi yójanā purú ||
Neither the two worlds can encompass thy might, O Indra, nor can oceans and mountains confine thy chariot. None can overtake thy thunderbolt when with thy swift ones thou fliest across many leagues.
न । क्षो॒णीभ्या॑म् । प॒रि॒ऽभ्वे॑ । ते॒ । इ॒न्द्रि॒यम् । न । स॒मु॒द्रैः । पर्व॑तैः । इ॒न्द्र॒ । ते॒ । रथः॑ । न । ते॒ । वज्र॑म् । अनु॑ । अ॒श्नो॒ति॒ । कः । च॒न । यत् । आ॒शुऽभिः॑ । पत॑सि । योज॑ना । पु॒रु ॥न । क्षोणीभ्याम् । परिभ्वे । ते । इन्द्रियम् । न । समुद्रैः । पर्वतैः । इन्द्र । ते । रथः । न । ते । वज्रम् । अनु । अश्नोति । कः । चन । यत् । आशुभिः । पतसि । योजना । पुरु ॥na | kṣoṇībhyām | pari-bhve | te | indriyam | na | samudraiḥ | parvataiḥ | indra | te | rathaḥ | na | te | vajram | anu | aśnoti | kaḥ | cana | yat | āśu-bhiḥ | patasi | yojanā | puru