Sukta 2.16
यस्मादिन्द्राद्बृहतः किं चनेमृते विश्वान्यस्मिन्त्सम्भृताधि वीर्या । जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम् ॥
यस्मा॒दिन्द्रा॑द्बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मि॒न्त्सम्भृ॒ताधि॑ वी॒र्या॑ । ज॒ठरे॒ सोमं॑ त॒न्वी॒३॒॑ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु॑म् ॥
yasmā́d índrād bṛhatáḥ kíṃ caném ṛté víśvāny asmint sambhṛtā́dhi vīryā́ | jaṭháre sómaṃ tanvī́ sahó mahó háste vájraṃ bhárati śī́rṣaṇi krátum ||
From Indra the Vast none can be apart, not even a little: in him all powers are gathered and set. In his belly is Soma; in his body are might and greatness; in his hand he bears the thunderbolt, and in his head the will of effective knowledge.
यस्मा॑त् । इन्द्रा॑त् । बृ॒ह॒तः । किम् । च॒न । ई॒म् । ऋ॒ते । विश्वा॑नि । अ॒स्मि॒न् । सम्ऽभृ॑ता । अधि॑ । वी॒र्या॑ । ज॒ठरे॑ । सोम॑म् । त॒न्वि॑ । सहः॑ । महः॑ । हस्ते॑ । वज्र॑म् । भर॑ति । शी॒र्षणि॑ । क्रतु॑म् ॥यस्मात् । इन्द्रात् । बृहतः । किम् । चन । ईम् । ऋते । विश्वानि । अस्मिन् । सम्भृता । अधि । वीर्या । जठरे । सोमम् । तन्वि । सहः । महः । हस्ते । वज्रम् । भरति । शीर्षणि । क्रतुम् ॥yasmāt | indrāt | bṛhataḥ | kim | cana | īm | ṛte | viśvāni | asmin | sam-bhṛtā | adhi | vīryā | jaṭhare | somam | tanvi | sahaḥ | mahaḥ | haste | vajram | bharati | śīrṣaṇi | kratum