Sukta 2.15
भिनद्वलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत् । रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इन्द्रश्चकार ॥
भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै॑रत् । रि॒णग्रोधां॑सि कृ॒त्रिमा॑ण्येषां॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
bhinád valám aṅgírobhir gṛṇānó ví párvatasya dṛṃhitā́ny áirat | riṇág ródhāṃsi kṛtrímāṇy eṣā́ṃ sómasya tā́ máda índraś cakāra ||
Praising with the Angiras powers, he broke open Vala; he drove apart the compacted fastnesses of the mountain. He shattered their artificial obstructions and barriers; these deeds Indra wrought in the ecstasy of Soma.
भि॒नत् । व॒लम् । अङ्गि॑रःऽभिः । गृ॒णा॒नः । वि । पर्व॑तस्य । दृं॒हि॒तानि॑ । ऐ॒र॒त् । रि॒णक् । रोधां॑सि । कृ॒त्रिमा॑णि । ए॒षा॒म् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥भिनत् । वलम् । अङ्गिरःभिः । गृणानः । वि । पर्वतस्य । दृंहितानि । ऐरत् । रिणक् । रोधांसि । कृत्रिमाणि । एषाम् । सोमस्य । ता । मदे । इन्द्रः । चकार ॥bhinat | valam | aṅgiraḥ-bhiḥ | gṛṇānaḥ | vi | parvatasya | dṛṃhitāni | airat | riṇak | rodhāṃsi | kṛtrimāṇi | eṣām | somasya | tā | made | indraḥ | cakāra