Sukta 2.15
स विद्वाँ अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक् । प्रति श्रोणः स्थाद्व्यनगचष्ट सोमस्य ता मद इन्द्रश्चकार ॥
स वि॒द्वाँ अ॑पगो॒हं क॒नीना॑मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् । प्रति॑ श्रो॒णः स्था॒द्व्य१॒॑नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
sa vidvāṁ apa-goham kanīnām āvir bhavann ud atiṣṭhat parāvṛk | prati śroṇaḥ sthād vy anag acaṣṭa somasya tā made indraś cakāra ||
Knowing the hidden place where the young lights are concealed, he became manifest and rose up from the far turning. Standing opposite, the Strong One looked out and saw distinctly—these Indra accomplished in the ecstasy of Soma.
सः । वि॒द्वान् । अ॒प॒ऽगो॒हम् । क॒नीना॑म् । आ॒विः । भव॑न् । उत् । अ॒ति॒ष्ठ॒त् । प॒रा॒ऽवृक् । प्रति॑ । श्रो॒णः । स्था॒त् । वि । अ॒नक् । अ॒च॒ष्ट॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥सः । विद्वान् । अपगोहम् । कनीनाम् । आविः । भवन् । उत् । अतिष्ठत् । परावृक् । प्रति । श्रोणः । स्थात् । वि । अनक् । अचष्ट । सोमस्य । ता । मदे । इन्द्रः । चकार ॥saḥ | vidvān | apa-goham | kanīnām | āviḥ | bhavan | ut | atiṣṭhat | parāvṛk | prati | śroṇaḥ | sthāt | vi | anak | acaṣṭa | somasya | tā | made | indraḥ | cakāra