Sukta 2.15
स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युं प्र दभीतिमावः । रम्भी चिदत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश्चकार ॥
स्वप्ने॑ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं॑ च ज॒घन्थ॒ दस्युं॒ प्र द॒भीति॑मावः । र॒म्भी चि॒दत्र॑ विविदे॒ हिर॑ण्यं॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
svápnenābhyùpyā cúmurim dhúnim ca jaghántha dásyuṃ prá dabhī́tim āvaḥ | rambhī́ cid átra vividé híraṇyaṃ sómasya tā́ máda índraś cakāra ||
By the power of dream-vision, coming upon them, thou didst smite Cumuri and Dhuni; thou didst deliver Dabhīti from the Dasyu. Even Rambhī here found the hidden gold: these works Indra accomplished in the rapture of Soma.
स्वप्ने॑न । अ॒भि॒ऽउप्य॑ । चुमु॑रिम् । धुनि॑म् । च॒ । ज॒घन्थ॑ । दस्यु॑म् । प्र । द॒भीति॑म् । आ॒वः॒ । र॒म्भी । चि॒त् । अत्र॑ । वि॒वि॒दे॒ । हिर॑ण्यम् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥स्वप्नेन । अभिउप्य । चुमुरिम् । धुनिम् । च । जघन्थ । दस्युम् । प्र । दभीतिम् । आवः । रम्भी । चित् । अत्र । विविदे । हिरण्यम् । सोमस्य । ता । मदे । इन्द्रः । चकार ॥svapnena | abhi-upya | cumurim | dhunim | ca | jaghantha | dasyum | pra | dabhītim | āvaḥ | rambhī | cit | atra | vivide | hiraṇyam | somasya | tā | made | indraḥ | cakāra