Sukta 2.15
सोदञ्चं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष । अजवसो जविनीभिर्विवृश्चन्त्सोमस्य ता मद इन्द्रश्चकार ॥
सोद॑ञ्चं॒ सिन्धु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षस॒: सं पि॑पेष । अ॒ज॒वसो॑ ज॒विनी॑भिर्विवृ॒श्चन्त्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
sodañcaṁ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ saṁ pipeṣa | ajavaso javinībhir vivṛścant somasya tā made indraś cakāra ||
He turned the Sindhu upward by his greatness; with the thunder-force he crushed the carts of the Dawn. Cutting through the un-hasty with swift ones—these Indra accomplished in the ecstasy of Soma.
सः । उद॑ञ्चम् । सिन्धु॑म् । अ॒रि॒णा॒त् । म॒हि॒त्वा । वज्रे॑ण । अनः॑ । उ॒षसः॑ । सम् । पि॒पे॒ष॒ । अ॒ज॒वसः॑ । ज॒विनी॑भिः । वि॒ऽवृ॒श्चन् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥सः । उदञ्चम् । सिन्धुम् । अरिणात् । महित्वा । वज्रेण । अनः । उषसः । सम् । पिपेष । अजवसः । जविनीभिः । विवृश्चन् । सोमस्य । ता । मदे । इन्द्रः । चकार ॥saḥ | udañcam | sindhum | ariṇāt | mahitvā | vajreṇa | anaḥ | uṣasaḥ | sam | pipeṣa | ajavasaḥ | javinībhiḥ | vi-vṛścan | somasya | tā | made | indraḥ | cakāra