Sukta 2.15
स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ । सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इन्द्रश्चकार ॥
स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या॑ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ । सं गोभि॒रश्वै॑रसृज॒द्रथे॑भि॒: सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
sa pravoḷhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau | saṁ gobhir aśvair asṛjad rathebhiḥ somasya tā made indraś cakāra ||
He went round the ‘carriers’ of the offering from fear and burned up every weapon in the kindled fire. Then he set together the powers of light and speed—cows, horses, and chariots—these Indra accomplished in the ecstasy of Soma.
सः । प्र॒ऽवो॒ळ्हॄन् । प॒रि॒ऽगत्य॑ । द॒भीतेः॑ । विश्व॑म् । अ॒धा॒क् । आयु॑धम् । इ॒द्धे । अ॒ग्नौ । सम् । गोभिः॑ । अश्वैः॑ । अ॒सृ॒ज॒त् । रथे॑भिः । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥सः । प्रवोळ्हॄन् । परिगत्य । दभीतेः । विश्वम् । अधाक् । आयुधम् । इद्धे । अग्नौ । सम् । गोभिः । अश्वैः । असृजत् । रथेभिः । सोमस्य । ता । मदे । इन्द्रः । चकार ॥saḥ | pra-voḷhṛn | pari-gatya | dabhīteḥ | viśvam | adhāk | āyudham | iddhe | agnau | sam | gobhiḥ | aśvaiḥ | asṛjat | rathebhiḥ | somasya | tā | made | indraḥ | cakāra