Sukta 2.15
सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन्नदीनाम् । वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद इन्द्रश्चकार ॥
सद्मे॑व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना॑म् । वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām | vṛthā sṛjat pathibhir dīrghayāthaiḥ somasya tā made indraś cakāra ||
As if laying out a dwelling, he measured out the forward spaces by measures; with the thunder-force he pierced open the channels of the rivers. He sent them forth along paths of long journey—these Indra accomplished in the ecstasy of Soma.
सद्म॑ऽइव । प्राचः॑ । वि । मि॒मा॒य॒ । मानैः॑ । वज्रे॑ण । खानि॑ । अ॒तृ॒ण॒त् । न॒दीना॑म् । वृथा॑ । अ॒सृ॒ज॒त् । प॒थिऽभिः॑ । दी॒र्घ॒ऽया॒थैः । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥सद्मइव । प्राचः । वि । मिमाय । मानैः । वज्रेण । खानि । अतृणत् । नदीनाम् । वृथा । असृजत् । पथिभिः । दीर्घयाथैः । सोमस्य । ता । मदे । इन्द्रः । चकार ॥sadma-iva | prācaḥ | vi | mimāya | mānaiḥ | vajreṇa | khāni | atṛṇat | nadīnām | vṛthā | asṛjat | pathi-bhiḥ | dīrgha-yāthaiḥ | somasya | tā | made | indraḥ | cakāra