Sukta 2.15
अवंशे द्यामस्तभायद्बृहन्तमा रोदसी अपृणदन्तरिक्षम् । स धारयत्पृथिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार ॥
अ॒वं॒शे द्याम॑स्तभायद्बृ॒हन्त॒मा रोद॑सी अपृणद॒न्तरि॑क्षम् । स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
avaṁśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam | sa dhārayat pṛthivīṁ paprathac ca somasya tā made indraś cakāra ||
He propped the vast heaven; he filled the two worlds and the mid-region. He held firm the earth and spread it wide—these Indra accomplished in the ecstasy of Soma.
अ॒वं॒शे । द्याम् । अ॒स्त॒भा॒य॒त् । बृ॒हन्त॑म् । आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । अ॒न्तरि॑क्षम् । सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ॑त् । च॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥अवंशे । द्याम् । अस्तभायत् । बृहन्तम् । आ । रोदसी इति । अपृणत् । अन्तरिक्षम् । सः । धारयत् । पृथिवीम् । पप्रथत् । च । सोमस्य । ता । मदे । इन्द्रः । चकार ॥avaṃśe | dyām | astabhāyat | bṛhantam | ā | rodasī iti | apṛṇat | antarikṣam | saḥ | dhārayat | pṛthivīm | paprathat | ca | somasya | tā | made | indraḥ | cakāra