Sukta 2.13
यः पुष्पिणीश्च प्रस्वश्च धर्मणाधि दाने व्यवनीरधारयः । यश्चासमा अजनो दिद्युतो दिव उरुरूर्वाँ अभितः सास्युक्थ्यः ॥
यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॒॑वनी॒रधा॑रयः । यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भित॒: सास्यु॒क्थ्य॑: ॥
yáḥ púṣpiṇīś ca pra-sváś ca dhármaṇā́dhi dā́ne ví avánīr ádhārayaḥ | yáś cā́samā ajáno didyúto divá urúr ū́rvāṃ abhítaḥ sá āsy ukthyáḥ ||
You upheld the blossoming and the forward-breeding powers by the law, by the giving, and you spread out the worlds. And you brought into being the unequalled lightnings of heaven, wide on every side—he indeed is the true subject of the hymn.
यः । पु॒ष्पिणीः॑ । च॒ । प्र॒ऽस्वः॑ । च॒ । धर्म॑णा । अधि॑ । दाने॑ । वि । अ॒वनीः॑ । अधा॑रयः । यः । च॒ । अस॑माः । अज॑नः । दि॒द्युतः॑ । दि॒वः । उ॒रुः । ऊ॒र्वान् । अ॒भितः॑ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥यः । पुष्पिणीः । च । प्रस्वः । च । धर्मणा । अधि । दाने । वि । अवनीः । अधारयः । यः । च । असमाः । अजनः । दिद्युतः । दिवः । उरुः । ऊर्वान् । अभितः । सः । असि । उक्थ्यः ॥yaḥ | puṣpiṇīḥ | ca | pra-svaḥ | ca | dharmaṇā | adhi | dāne | vi | avanīḥ | adhārayaḥ | yaḥ | ca | asamāḥ | ajanaḥ | didyutaḥ | divaḥ | uruḥ | ūrvān | abhitaḥ | saḥ | asi | ukthyaḥ