Sukta 2.13
यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद्दुदोहिथ । स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्युक्थ्यः ॥
यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्दु॒दोहि॑थ । स शे॑व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्य॑: ॥
yó bhójanam ca dáyase ca várdhanam ārdrā́d ā́ śúṣkaṃ mádhumad dudóhitha | sá śevadhíṃ ní dadhiṣe vivásvati viśvásyaika īśiṣe sá āsy ukthyáḥ ||
You give both the food and the increase; from the moist you milk out the dry as honeyed. You set the treasure within the radiant one; you alone rule over all—he indeed is the true subject of the hymn.
यः । भोज॑नम् । च॒ । दय॑से । च॒ । वर्ध॑नम् । आ॒र्द्रात् । आ । शुष्क॑म् । मधु॑ऽमत् । दु॒दोहि॑थ । सः । शे॒व॒धिम् । नि । द॒धि॒षे॒ । वि॒वस्व॑ति । विश्व॑स्य । एकः॑ । ई॒शि॒षे॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥यः । भोजनम् । च । दयसे । च । वर्धनम् । आर्द्रात् । आ । शुष्कम् । मधुमत् । दुदोहिथ । सः । शेवधिम् । नि । दधिषे । विवस्वति । विश्वस्य । एकः । ईशिषे । सः । असि । उक्थ्यः ॥yaḥ | bhojanam | ca | dayase | ca | vardhanam | ārdrāt | ā | śuṣkam | madhu-mat | dudohitha | saḥ | śevadhim | ni | dadhiṣe | vivasvati | viśvasya | ekaḥ | īśiṣe | saḥ | asi | ukthyaḥ