Sukta 2.13
सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् । समानो अध्वा प्रवतामनुष्यदे यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
स॒ध्रीमा य॑न्ति॒ परि॒ बिभ्र॑ती॒: पयो॑ वि॒श्वप्स्न्या॑य॒ प्र भ॑रन्त॒ भोज॑नम् । स॒मा॒नो अध्वा॑ प्र॒वता॑मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्य॑: ॥
sadhrīmā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam | samāno adhvā pra-vatām anu-syade yastākṛṇoḥ prathamaṃ sāsy ukthyaḥ ||
In harmony they move, bearing around the milk-essence; for the all-nourishing they bring forward the food of delight. One is the path along the downward slopes they follow; you who first made them so—worthy are you of the hymn.
स॒ध्री । ई॒म् । आ । य॒न्ति॒ । परि॑ । बिभ्र॑तीः । पयः॑ । वि॒श्वऽप्स्न्या॑य । प्र । भ॒र॒न्त॒ । भोज॑नम् । स॒मा॒नः । अध्वा॑ । प्र॒ऽवता॑म् । अ॒नु॒ऽस्यदे॑ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥सध्री । ईम् । आ । यन्ति । परि । बिभ्रतीः । पयः । विश्वप्स्न्याय । प्र । भरन्त । भोजनम् । समानः । अध्वा । प्रवताम् । अनुस्यदे । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः ॥sadhrī | īm | ā | yanti | pari | bibhratīḥ | payaḥ | viśva-psnyāya | pra | bharanta | bhojanam | samānaḥ | adhvā | pra-vatām | anu-syade | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ