Sukta 2.13
ऋतुर्जनित्री तस्या अपस्परि मक्षू जात आविशद्यासु वर्धते । तदाहना अभवत्पिप्युषी पयोंऽशोः पीयूषं प्रथमं तदुक्थ्यम् ॥
ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते । तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्य॑म् ॥
ṛtur janitrī tasyā apaḥ pari makṣū jāta āviśad yāsu vardhate | tad āhanā abhavat pipyuṣī payo ’ṃśoḥ pīyūṣaṃ prathamaṃ tad ukthyam ||
The Season, the begetting Power—around her the Waters: swiftly, once born, he entered into those in which he grows. Then she became the milch-cow, swelling with richness; the milk of the stalk, the first nectar—this is worthy of the hymn.
ऋ॒तुः । जनि॑त्री । तस्याः॑ । अ॒पः । परि॑ । म॒क्षु । जा॒तः । आ । अ॒वि॒श॒त् । यासु॑ । वर्ध॑ते । तत् । आ॒ह॒नाः । अ॒भ॒व॒त् । पि॒प्युषी॑ । पयः॑ । अं॒शोः । पी॒यूष॑म् । प्र॒थ॒मम् । तत् । उ॒क्थ्य॑म् ॥ऋतुः । जनित्री । तस्याः । अपः । परि । मक्षु । जातः । आ । अविशत् । यासु । वर्धते । तत् । आहनाः । अभवत् । पिप्युषी । पयः । अंशोः । पीयूषम् । प्रथमम् । तत् । उक्थ्यम् ॥ṛtuḥ | janitrī | tasyāḥ | apaḥ | pari | makṣu | jātaḥ | ā | aviśat | yāsu | vardhate | tat | āhanāḥ | abhavat | pipyuṣī | payaḥ | aṃśoḥ | pīyūṣam | prathamam | tat | ukthyam