Sukta 2.13
सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विन्दसे वसु । जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः ॥
सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्यं१॒॑ यदेके॑न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑ । जा॒तूष्ठि॑रस्य॒ प्र वय॒: सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा॑स्यु॒क्थ्य॑: ॥
su-pravā́canaṃ táva vīra vīryàṃ yád ékena krátunā vindáse vásu | jātū́ṣṭhirasya prá váyaḥ sáhasvato yā́ cákartha sá índra viśvā́sy ukthyáḥ ||
Well-worthy to be spoken is your hero-power, O hero, since by a single will you find the riches. You drive forward the strength of the ever-stable, the forceful; what you have done—O Indra—you are hymn-worthy in all.
सु॒ऽप्र॒वा॒च॒नम् । तव॑ । वी॒र॒ । वी॒र्य॑म् । यत् । एके॑न । क्रतु॑ना । वि॒न्दसे॑ । वसु॑ । जा॒तूऽस्थि॑रस्य । प्र । वयः॑ । सह॑स्वतः । या । च॒कर्थ॑ । सः । इ॒न्द्र॒ । विश्वा॑ । अ॒सि॒ । उ॒क्थ्यः॑ ॥सुप्रवाचनम् । तव । वीर । वीर्यम् । यत् । एकेन । क्रतुना । विन्दसे । वसु । जातूस्थिरस्य । प्र । वयः । सहस्वतः । या । चकर्थ । सः । इन्द्र । विश्वा । असि । उक्थ्यः ॥su-pravācanam | tava | vīra | vīryam | yat | ekena | kratunā | vindase | vasu | jātū-sthirasya | pra | vayaḥ | sahasvataḥ | yā | cakartha | saḥ | indra | viśvā | asi | ukthyaḥ