Sukta 2.13
विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम् । षळस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्युक्थ्यः ॥
विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन॑म् । षळ॑स्तभ्ना वि॒ष्टिर॒: पञ्च॑ सं॒दृश॒: परि॑ प॒रो अ॑भव॒: सास्यु॒क्थ्य॑: ॥
viśvéd ánu rodhanā́ asya páuṃsyaṃ dadúr asmai dadhire kṛtnáve dhánam | ṣáḷ astabhnā vi-stíraḥ páñca saṃ-dṛ́śaḥ pári paró abhavaḥ sá āsy ukthyáḥ ||
All the boundaries followed his manhood and gave to him; they placed wealth for the accomplisher. You fixed the six expanses, the five correspondences; you became the one beyond the beyond—he indeed is the true subject of the hymn.
विश्वा॑ । इत् । अनु॑ । रो॒ध॒नाः । अ॒स्य॒ । पौंस्य॑म् । द॒दुः । अ॒स्मै॒ । द॒धि॒रे । कृ॒त्नवे॑ । धन॑म् । षट् । अ॒स्त॒भ्नाः॒ । वि॒ऽस्तिरः॑ । पञ्च॑ । स॒म्ऽदृशः॑ । परि॑ । प॒रः । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥विश्वा । इत् । अनु । रोधनाः । अस्य । पौंस्यम् । ददुः । अस्मै । दधिरे । कृत्नवे । धनम् । षट् । अस्तभ्नाः । विस्तिरः । पञ्च । सम्दृशः । परि । परः । अभवः । सः । असि । उक्थ्यः ॥viśvā | it | anu | rodhanāḥ | asya | paiṃsyam | daduḥ | asmai | dadhire | kṛtnave | dhanam | ṣaṭ | astabhnāḥ | vi-stiraḥ | pañca | sam-dṛśaḥ | pari | paraḥ | abhavaḥ | saḥ | asi | ukthyaḥ