Sukta 2.11
इन्द्रो महां सिन्धुमाशयानं मायाविनं वृत्रमस्फुरन्निः । अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥
इन्द्रो॑ म॒हां सिन्धु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः । अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त् ॥
índro mahā́ṃ síndhum āśáyānaṃ māyāvínaṃ vṛtrám asphuran níḥ | árejetāṃ ródasī bhiyāné kaníkradato vṛ́ṣṇo asya vájrāt ||
Indra struck out the vast flood that lay held down—the illusion-weaving Vṛtra; he smote it forth. Heaven and Earth trembled in fear, hearing the repeated thunder-cry of the Bull, when his vajra was released.
इन्द्रः॑ । म॒हाम् । सिन्धु॑म् । आ॒ऽशया॑नम् । मा॒या॒ऽविन॑म् । वृ॒त्रम् । अ॒स्फु॒र॒त् । निः । अरे॑जेताम् । रोद॑सी॒ इति॑ । भि॒या॒ने इति॑ । कनि॑क्रदतः । वृष्णः॑ । अ॒स्य॒ । वज्रा॑त् ॥इन्द्रः । महाम् । सिन्धुम् । आशयानम् । मायाविनम् । वृत्रम् । अस्फुरत् । निः । अरेजेताम् । रोदसी इति । भियाने इति । कनिक्रदतः । वृष्णः । अस्य । वज्रात् ॥indraḥ | mahām | sindhum | āśayānam | māyāvinam | vṛtram | asphurat | niḥ | arejetām | rodasī iti | bhiyāne iti | kanikradataḥ | vṛṣṇaḥ | asya | vajrāt